Ticker

10/recent/ticker-posts

12 Jyotirlinga Jaap - Katha Barah Jyotirling Ki Lyric in Hindi - सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। हिंदी लिरिक्स





12 Jyotirlinga Jaap





12 Jyotirlinga Jaap - Yatra Dwadash Jyotirling

Singer: Anuradha Paudwal

Composer: Shekhar Sen

Label: T-Series









Download Now:
MP3 |

MP4 |

M4A














LISTEN SONG ONLINE








यह भी देखें - You May Also Like









सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। - 12 Jyotirlinga Jaap Lyric in Hindi


रचन: आदि शङ्कराचार्य


लघु स्तोत्रम्

सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥

पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ।

सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥

वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ।

हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥


एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।

सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥


सम्पूर्ण स्तोत्रम्

सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।

भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गे‌உपि सदा वसन्तम् ।

तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥


अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥


कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।

सदैव मान्धातृपुरे वसन्तम् ॐकारमीशं शिवमेकमीडे ॥ 4 ॥


पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥


यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।

सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 6 ॥


श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ।

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥


याम्ये सदङ्गे नगरे‌உतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥


सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापबृन्दम् ।

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥


सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।

यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 10 ॥


महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।

सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥


इलापुरे रम्यविशालके‌உस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥


ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।

स्तोत्रं पठित्वा मनुजो‌உतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥



CATEGORIES





Print Friendly and PDF

Post a Comment

0 Comments